वांछित मन्त्र चुनें

वृ॒ष॒भो न ति॒ग्मशृ॑ङ्गो॒ऽन्तर्यू॒थेषु॒ रोरु॑वत् । म॒न्थस्त॑ इन्द्र॒ शं हृ॒दे यं ते॑ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

अंग्रेज़ी लिप्यंतरण

vṛṣabho na tigmaśṛṅgo ntar yūtheṣu roruvat | manthas ta indra śaṁ hṛde yaṁ te sunoti bhāvayur viśvasmād indra uttaraḥ ||

पद पाठ

वृ॒ष॒भः । न । ति॒ग्मऽशृ॑ङ्गः । अ॒न्तः । यू॒थेषु॑ । रोरु॑वत् । म॒न्थः । ते॒ । इ॒न्द्र॒ । शम् । हृ॒दे । यम् । ते॒ । सु॒नोति॑ । भा॒व॒युः । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥ १०.८६.१५

ऋग्वेद » मण्डल:10» सूक्त:86» मन्त्र:15 | अष्टक:8» अध्याय:4» वर्ग:3» मन्त्र:5 | मण्डल:10» अनुवाक:7» मन्त्र:15


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वृषभः-न तिग्मशृङ्गः) जैसे तीक्ष्ण शृङ्गवाला वृषभ-साँड (यूथेषु-अन्तः-रोरुवत्) गोसमूहों के अन्दर बहुत शब्द करता है, तथा वैसे (इन्द्र) हे उत्तरध्रुव ! तू खगोल के पिण्डों में मानो अपना घोष करता है (ते मन्थः) तेरा मन्थन व्यापार पिण्डों को आन्दोलित करने का (हृदे शम्) हृदय के लिये कल्याणकारी हो (तं यं भावयुः-सुनोति) उस जिस पुत्र को आत्मभाव चाहनेवाली अपनानेवाली इन्द्राणी उत्पन्न करती है (न सः-ईशे) वह नहीं स्वामित्व करता है, न ही गृहस्थभाव को प्राप्त है (यस्य कपृत्) जिसका सुख देनेवाला अङ्ग (सक्थ्या-अन्तरा लम्बते) दोनों सांथलों जङ्घाओं के मध्य में लम्बित होता है (स-इत्-ईशे) वह ही गृहस्थ कर्म पर अधिकार करता है (यस्य निषेदुषः) जिस निकट शयन करते हुए का (रोमशं विजृम्भते) रोमोंवाला अङ्ग विजृम्भन करता है-फड़कता है (न सः-ईशे) वह गृहस्थ कर्म पर अधिकार नहीं करता है (यस्य निषेदुषः-रोमशं विजृम्भते) जिसके निकट शयन किये हुए रोमोंवाला अङ्ग फड़कता है (सः-इत्-ईशे) वह ही गृहस्थकर्म पर अधिकार रखता है (यस्य सक्थ्या-अन्तरा कपृत्-लम्बते) जिसके निकट शयन करने पर सांथलों-जङ्घाओं के बीच में सुखदायक अङ्ग विजृम्भित होता है, वह ही गृहस्थकर्म पर अधिकार करता है ॥१५-१७॥
भावार्थभाषाः - रोमवाले अङ्ग का फड़फड़ाना सुखप्रद अङ्ग का सांथलों-योनिमध्य में अवलम्बित होना गृहस्थकर्म पर अधिकार कराता है ॥१५-१७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वृषभः-न-तिग्मशृङ्गः) यथा तीक्ष्णशृङ्गो वृषभः (यूथेषु-अन्तः-रोरुवत्) गोसमूहेषु खल्वन्तर्वर्त्तमानः सन् भृशं शब्दयति तथा (इन्द्र) हे उत्तरध्रुव ! त्वं भृशं वद (ते मन्थः) तव मन्थनं व्यापारः (हृदे शम्) हृदयाय कल्याणकारी भवतु (ते यं भावयुः सुनोति) आत्मभावमिच्छन्तीन्द्राणी तुभ्यं पुत्रं सुनोति जनयति (न सः-ईशे) न हि सः “सुपां सुलुक्” [अष्टा० ७।१।३९] इति सुलुक् पुनः सन्धिः “इष्टं गार्हस्थ्यमधिकरोति” (यस्य कपृत्) यस्य सुखं पृणाति ददाति यत्तदङ्गम् “पृणाति दानकर्मा” [निघ० ३।२०] क पूर्वकात् पृ धातो क्विपि रूपं तुक् च (सक्थ्या-अन्तरा रम्बते) सक्थिनी अन्तरा लम्बते (सः-इत्-ईशे) स एव गार्हस्थ्यमधिकरोति (यस्य निषेदुषः) यस्य निषदतो निकटं शयानस्य (रोमशं विजृम्भते) रोमशमङ्गं विजृम्भणं करोति विशिष्टं गात्रविनाम करोति (न सः-ईशे) न हि स खलु गार्हस्थ्यमधिकरोति (यस्य निषेदुषः-रोमशं विजृम्भते) यस्य निकटं श्यानस्य रोमशमङ्गं गात्रविनाम करोति (स-इत्-ईशे) स एव गार्हस्थ्यमधिकरोति (यस्य सक्थ्या-अन्तरा कपृत्-रम्बते) यस्य निकटं शयानस्य सक्थिनी अन्तरा सुखदायकमङ्गं लम्बते रोमशाङ्गस्य विजृम्भणं सुखप्रदाङ्गस्य योनौ लम्बनञ्च ॥१५-१७॥